Thursday, May 24, 2007

आगच्छ कृष्ण!

आगच्छ कृष्ण!
श्रूयताम्
हे कृष्ण माधव मुरारे राधा सखे हे हरे !
आगच्छ मामुद्धराऽहं मग्नोस्मि भवसागरे।।

अभवत्तु धर्मस्य ग्लानिः अधर्मस्य जातं प्रभुत्वम्।
खलु शास्त्रनीत्याश्च हानिः गतं संकटे मानवत्वम्।।
गीता स्वकथनानुसारेण आगच्छ नटनागर हे!
हे कृष्ण माधव मुरारे राधा सखे हे हरे !
श्रूयताम्
स्वार्थाय मिथ्यात्र प्रीतिः अपूर्णाऽक्षमा दण्डनीतिः।
भ्रष्टाऽभवल्लोकरीतिः स्वैरंगता राजनीतिः ।।
आगच्छ हे चक्रपाणे! नीत्वा सुदर्शनं करे।।
हे कृष्ण माधव मुरारे राधा सखे हे हरे !

लुप्तं मधुर संगीतं बहु श्रूयते पाप गीतम्।
ननु दृश्यते नग्नतैव गतं क्व विशिष्टं अतीतम्।।
संस्थापनार्थं कलायाः आगच्छ मुरलीधर हे!
हे कृष्ण माधव मुरारे राधा सखे हे हरे !

दधि दुग्ध तक्राण्यपेयं दुश्चूषकं बालप्रेयं ।
पेप्सी द्रवं नंमधेयं सर्व प्रियं शितपेयं।।
पञ्चामृत प्रिय गोपालं नवनीत चौरं भजे।
हे कृष्ण माधव मुरारे राधा सखे हे हरे !